|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.31. अध्यायः 031
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण सञ्जयंप्रति धृतराष्ट्रभीष्मयोरभिवादनपूर्वकं सन्धिकरणविज्ञापननिवेदनचोदनम् ॥ 1 ॥
तथा दुर्योधनंप्रति तत्कृतानयोपेक्षणकथनपूर्वकं ग्रामपञ्चकदानेन सन्धिकरणसन्देशः ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
युधिष्ठिर उवाच। 5-31-0x(3433)(32641)
उत सन्तमसन्तं वा बालं वृद्धं च सञ्जय।
उताबलं बलीयांसं धाता प्रकुरुते वशे ॥ 5-31-1(32642)
उत बालाय पाण्डित्यं पण्डितायोत बालताम्।
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ 5-31-2(32643)
बलं जिज्ञासमानस्य आचक्षीथा यथातथम्।
अथ मन्त्र मन्त्रयित्वा याथातथ्येन हृष्टवत् ॥ 5-31-3(32644)
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम् ।
अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम् ॥ 5-31-4(32645)
ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् ।
तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ॥ 5-31-5(32646)
तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिन्दम।
राज्ये तान्स्थापयित्वाऽग्रे नोपेक्षस्व विनश्यतः ॥ 5-31-6(32647)
सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित् ।
तात संहत्य जीवामो द्विषतां मा वशं गमः ॥ 5-31-7(32648)
तथा भीष्मं शान्तनवं भारतानां पितामहम्।
शिरसाऽभिवदेथास्त्वं मम नाम प्रकीर्तयन् ॥ 5-31-8(32649)
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः ।
भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः ॥ 5-31-9(32650)
स त्वं कुरु तथा तात स्वमतेन पितामह ।
यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ॥ 5-31-10(32651)
तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्।
अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरे ॥ 5-31-11(32652)
अथ दुर्योधनं ब्रूया राजपुत्रममर्षणम्।
मध्ये कुरूणामासीनमनुनीय पुनः पुनः ॥ 5-31-12(32653)
अपापां यदुपैक्षस्त्वं कृष्णामेतां सभागताम् ।
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥ 5-31-13(32654)
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः।
बलीयांसोऽपि सन्तो यत्तत्सर्वं कुरवो विदुः ॥ 5-31-14(32655)
यन्नः प्रव्राजयेः सौम्य अजिनैः प्रतिवासितान्।
तद्दुःखमतितिक्षाम मा वधीषय कुरूनिति ॥ 5-31-15(32656)
यत्कुन्तीं समतिक्रम्य कृष्णां केशेष्वधर्षयत्।
दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ॥ 5-31-16(32657)
अथोचितं स्वकं भागं लभेमहि परन्तप।
निवर्तय परद्रव्याद्बुद्धिं गृद्धां नरर्षभ ॥ 5-31-17(32658)
शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् ।
राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ॥ 5-31-18(32659)
अविस्थलं वृकस्थलं माकन्दीं वारणावतम्।
अवसानं भवत्वत्र किंचिदेकं च पञ्चमम् ॥ 5-31-19(32660)
भ्रातॄणां देहि पञ्चानां पञ्च ग्रामान्सुयोधन।
शान्तिर्नोस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय॥ 5-31-20(32661)
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्।
स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥ 5-31-21(32662)
अक्षतान्कुरु पाञ्चालान्पश्येयमिति कामये।
सर्वे सुमनसस्तात शाम्याय भरतर्षभ ॥ 5-31-22(32663)
अलमेव शमायास्मि तथा युद्धाय सञ्जय।
धर्मार्थयोरलं चाहं मृदवे दारुणाय च ॥ ॥ 5-31-23(32664)
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकत्रिंशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-31-1 सन्तं साधुम्। असन्तं दुष्टम् । धाता ईश्वरः ॥ 1 ॥ 5-31-2 शुक्रं बीजभूतं प्राचीनं कर्म उच्चरन् उद्दीपयन् ॥ 2 ॥ 5-31-7 सर्वं ब्रह्माण्डम्। संहत्य एकीभूय ॥ 7 ॥ 5-31-13 अतितिक्षाम क्षान्तवन्तो वयम् तत्र हेतुः मां वधीष्मेति ॥ 13 ॥ 5-31-17 गृद्धां लुब्धाम् ॥ 17 ॥ 5-31-18 अवसानं वसतिस्थानम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|